Rig Veda‎ > ‎Mandal 10‎ > ‎Sukta 030‎ > ‎

Mantra Rig 10.030.012

MANTRA NUMBER:
Mantra 12 of Sukta 30 of Mandal 10 of Rig Veda
Mantra 2 of Varga 26 of Adhyaya 7 of Ashtak 7 of Rig Veda
Mantra 12 of Anuvaak 3 of Mandal 10 of Rig Veda


MANTRA DEFINITIONS:
ऋषि:   (Rishi) :- कवष ऐलूषः
देवता (Devataa) :- आप अपान्नपाद्वा
छन्द: (Chhand) :- निचृत्त्रिष्टुप्
स्वर: (Swar) :- धैवतः


THE MANTRA

The Mantra with meters (Sanskrit)
आपो॑ रेवती॒: क्षय॑था॒ हि वस्व॒: क्रतुं॑ च भ॒द्रं बि॑भृ॒थामृतं॑ च । रा॒यश्च॒ स्थ स्व॑प॒त्यस्य॒ पत्नी॒: सर॑स्वती॒ तद्गृ॑ण॒ते वयो॑ धात् ॥

The Mantra without meters (Sanskrit)
आपो रेवतीः क्षयथा हि वस्वः क्रतुं च भद्रं बिभृथामृतं च । रायश्च स्थ स्वपत्यस्य पत्नीः सरस्वती तद्गृणते वयो धात् ॥

The Mantra's transliteration in English
āpo revatīḥ kṣayathā hi vasvaḥ kratuṁ ca bhadram bibhṛthāmṛtaṁ ca | rāyaś ca stha svapatyasya patnīḥ sarasvatī tad gṛṇate vayo dhāt ||

The Pada Paath (Sanskrit)
आ॒पः । रे॒व॒तीः॒ । क्षय॑थ । हि । वस्वः॑ । क्रतु॑म् । च॒ । भ॒द्रम् । बि॒भृ॒थाम् । ऋत॑म् । च॒ । रा॒यः । च॒ । स्थ । सु॒ऽअ॒प॒त्यस्य॑ । पत्नीः॑ । सर॑स्वती । तत् । गृ॒ण॒ते । वयः॑ । धा॒त् ॥

The Pada Paath - transliteration
āpaḥ | revatīḥ | kṣayatha | hi | vasvaḥ | kratum | ca | bhadram | bibhṛthām | ṛtam | ca | rāyaḥ | ca | stha | su-apatyasya | patnīḥ | sarasvatī | tat | gṛṇate | vayaḥ | dhāt ||



ब्रह्म मुनि जी Brahma Muni ji
 

१०।०३०।१२

मन्त्रविषयः

 

 

अन्वयार्थः

(रेवतीः-आपः-वस्वः, क्षयथ हि) हे श्रीमत्यः प्रजाः ! यूयं राष्ट्रधनस्य स्वामित्वं कुरुथ हि क्षयति ऐश्वर्यकर्मा” [निघं० २।२१] (भद्रं क्रतुं च-अमृतं च बिभृथ) भजनीयमनुकूलं प्रज्ञानं सङ्कल्पं क्रतुः प्रज्ञानाम” [निघं ३।९] मृतत्वरहितं मोक्षसुखमिव सुखञ्च धारयथ (रायः स्वपत्यस्य च पत्नीः स्थ) भोगधनस्य सुसन्तानस्य वीरसन्तानस्य पालयित्र्यः स्थ (सरस्वती तत्-वयः-गृणते धात्) युष्माकं परिषत् खलु ज्ञानवती सती युष्माकं प्रशासनं प्रवक्त्रे मह्यं राज्ञे प्राणं धारयति प्राणो वै वयः” [ऐ० १।२८] ॥१२॥

(रेवतीः-आपः-वस्वः क्षयथ हिहे ऐश्वर्यवाली प्रजाओं ! तुम राष्ट्रिय धन का स्वामित्व करती हो (भद्रं क्रतुं च-अमृतं च बिभृथ) भजनीय अर्थात् अनुकूल संकल्प और अमृत अर्थात् मोक्ष सुख के समान सुख को धारण करती हो (रायः स्वपत्यस्य च पत्नीः स्थ) भोग धन और उत्तम सन्तान-वीर सन्तान की पालनेवाली-धारण करनेवाली हो (सरस्वती तत्-वयः-गृणते धात्) तुम्हारी ज्ञानवती सभा मुझ शासनघोषणा करनेवाले राजा के लिए प्राण को धारण कराती है ॥१२॥

भावार्थः

 

किसी भी राष्ट्र में राष्ट्रशासक प्रजाओं द्वारा निर्वाचित किया हुआ होना चाहिए। प्रजाएँ ही वास्तव में राष्ट्र की स्वामिनी हैं। वे उत्तम सन्तान की धनी हैं, उनकी सभा राजा के शासन की विशेष विचारक शक्ति है ॥१२॥

Comments