MANTRA NUMBER:
Mantra 8 of Sukta 12 of Mandal 10 of Rig Veda
Mantra 3 of Varga 12 of Adhyaya 6 of Ashtak 7 of Rig Veda
Mantra 98 of Anuvaak 1 of Mandal 10 of Rig Veda
MANTRA DEFINITIONS:
ऋषि: (Rishi) :- हविर्धान आङ्गिः
देवता (Devataa) :- अग्निः
छन्द: (Chhand) :- पादनिचृत्त्रिष्टुप्
स्वर: (Swar) :- धैवतः
THE MANTRA
The Mantra with meters (Sanskrit)
यस्मि॑न्दे॒वा मन्म॑नि सं॒चर॑न्त्यपी॒च्ये॒३॒॑ न व॒यम॑स्य विद्म । मि॒त्रो नो॒ अत्रादि॑ति॒रना॑गान्त्सवि॒ता दे॒वो वरु॑णाय वोचत् ॥
The Mantra without meters (Sanskrit)
यस्मिन्देवा मन्मनि संचरन्त्यपीच्ये न वयमस्य विद्म । मित्रो नो अत्रादितिरनागान्त्सविता देवो वरुणाय वोचत् ॥
The Mantra's transliteration in English
yasmin devā manmani saṁcaranty apīcye na vayam asya vidma | mitro no atrāditir anāgān savitā devo varuṇāya vocat ||
The Pada Paath (Sanskrit)
यस्मि॑न् । दे॒वाः । मन्म॑नि । स॒म्ऽचर॑न्ति । अ॒पी॒च्ये॑ । न । व॒यम् । अ॒स्य॒ । वि॒द्म॒ । मि॒त्रः । नः॒ । अत्र॑ । अदि॑तिः । अना॑गान् । स॒वि॒ता । दे॒वः । वरु॑णाय । वो॒च॒त् ॥
The Pada Paath - transliteration
yasmin | devāḥ | manmani | sam-caranti | apīcye | na | vayam | asya | vidma | mitraḥ | naḥ | atra | aditiḥ | anāgān | savitā | devaḥ | varuṇāya | vocat ||
ब्रह्म मुनि जी Brahma Muni ji
१०।०१२।०८
|
मन्त्रविषयः
|
|
|
|
अन्वयार्थः
|
(यस्मिन् मन्मनि-अपीच्ये) यस्मिन् हि मननीये “मन्मभिः-मननीयैः’ [निरु०१०।६] अपीच्ये-अपचिते प्रशंसां प्राप्ते हृदयान्तर्हिते
वा “अपीच्यमपचितमपिहितमन्तर्गतं वा” [निरु०४।२५] परमात्मनि (देवाः-सञ्चरन्ति) मुमुक्षवो विद्वांसः सम्यक् चरन्ति सम्यग् विहरन्ति-सङ्गच्छन्ते (वयम्-अस्य न विद्म) वयं साधारणजनाः-अस्य परमात्मनः
स्वरूपं न विद्म, सः (अत्र) अस्मिन् जन्मनि (मित्रः) संसारे कर्मकरणाय प्रेरकः सखा (अदितिः) अविनाशिनी माता (सविता) उत्पादकः-पिता (देवः) ज्ञानदाता गुरुः (वरुणाय) ‘वरुणः’ मोक्षार्थं
वरयिता बन्धुः, ‘व्यत्ययेन प्रथमास्थाने चतुर्थी’ (नः-अनागान्-वोचत्) अस्मान् पापसम्पर्करहितान्
पुण्यवत आध्यात्मिजनान् स्वं कल्याणवचनं वदेत्-उपदिशेत् ॥८
|
(यस्मिन् मन्मनि-अपीच्ये) जिस मननीय प्रशंसाप्राप्त तथा हृदयान्तर्हित परमात्मा में (देवाः सञ्चरन्ति) मुमुक्षु आत्माएँ सङ्गत होते
हैं-समागमलाभ करते हैं (अस्य वयं न विद्म) इसके स्वरूप को हम साधारण जन नहीं जान पाते हैं, वह (अत्र) इसी जन्म में (मित्रः) कर्मार्थ प्रेरित करनेवाला सखा (अदितिः) अविनाशी माता (सविता) उत्पादक पिता (देवः) ज्ञानदाता गुरु (वरुणाय) ‘वरुणः’ मोक्षार्थ वरनेवाला बन्धु भ्राता (नः-अनागान्) हम पापरहितों पुण्यात्मा हुओं को बुलाता है, कल्याणवचन कहता है ॥८॥
|
|
भावार्थः
|
|
मुमुक्षु आत्माएँ मननीय स्तुति करने योग्य हृदयस्थित
परमात्मा में समागम करते हैं। साधारण जन उसे नहीं जान पाते हैं। इसी जन्म में वह
कर्मार्थ प्रेरक सखा अविनाशी माता, उत्पादक पिता, ज्ञानदाता गुरु, मोक्षार्थ
वरनेवाला बन्धु हम पापरहितों पुण्यात्माओं को बुलाता है, कल्याणवचन सुनाता
है ॥८॥
|
|